मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १२, ऋक् ४

संहिता

के ते॑ अग्ने रि॒पवे॒ बन्ध॑नास॒ः के पा॒यवः॑ सनिषन्त द्यु॒मन्त॑ः ।
के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ॥

पदपाठः

के । ते॒ । अ॒ग्ने॒ । रि॒पवे॑ । बन्ध॑नासः । के । पा॒यवः॑ । स॒नि॒ष॒न्त॒ । द्यु॒ऽमन्तः॑ ।
के । धा॒सिम् । अ॒ग्ने॒ । अनृ॑तस्य । पा॒न्ति॒ । के । अस॑तः । वच॑सः । स॒न्ति॒ । गो॒पाः ॥

सायणभाष्यम्

हेअग्ने येरिपवे स्वकीयस्यशत्रोःबंधनासोबन्धकाः स्युः तेत्वत्संबन्धिनस्तेपुरुषाः के कीद्रुशाः सामर्थ्यातिशयदेवंविधाइतिकेना पिज्ञातुं -नशक्यन्तइत्यर्थः येपायवोजनानांरक्षितारः द्युमन्तोदीप्तिमन्तः सनिषन्त दीनेभ्योधनंप्रयच्छन्ति त्वदीयाः के कीदृशाः ये अनृतस्या -सत्यस्यधासिं धारकं जनं पान्तिरक्षन्ति ते त्वदीयाजनाः केसन्ति नकेपीत्यर्थः येअसतोदुष्टस्यअभिशापादिलक्षणस्यवचसोगोपाः गोपायितारोरक्षितारः तेत्वदीयाः केसन्ति नकेपीत्यर्थः अथवा येकेजनाः रिपोर्बन्धकाः येकेपायवोरक्षितारः सनिषन्त धनं प्रयच्छन्ति द्युमन्तः येकेअनृतस्यासत्यस्यधासिं धारकं जनं पान्ति अनृतजनितपापात् परिहृत्यसन्मार्गप्रदानेनरक्षन्ति येकेअसतः अभिशापादिलक्षणात् वचसोगोपाः गोपायितारःसन्ति तेसर्वेत्वदीयाः त्वदुपासकाः इत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः