मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १२, ऋक् ५

संहिता

सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वास॒ः सन्तो॒ अशि॑वा अभूवन् ।
अधू॑र्षत स्व॒यमे॒ते वचो॑भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्त॑ः ॥

पदपाठः

सखा॑यः । ते॒ । विषु॑णाः । अ॒ग्ने॒ । ए॒ते । शि॒वासः॑ । सन्तः॑ । अशि॑वाः । अ॒भू॒व॒न् ।
अधू॑र्षत । स्व॒यम् । ए॒ते । वचः॑ऽभिः । ऋ॒जु॒ऽय॒ते । वृ॒जि॒नानि॑ । ब्रु॒वन्तः॑ ॥

सायणभाष्यम्

हेअग्ने तेसखायः स्तोतारोविषुणाः विप्रकीर्णाः सर्वत्रव्याप्ताः एतेपूर्वमशिवाः परनिन्दादिकुर्वाणाः त्वत्परिचर्यांत्यजन्तोभद्राःसन्तः इदानींत्वत्परिचर्यांकुर्वन्तः शिवासः शिवाः आढ्याः अभूवन् किंच येऋजूयते ऋजुसम्यगाचरतेपि मह्यंवचोभिः असाधूक्तिभिः वृजिनानि कुटिलानि ब्रुवन्तः तएतेममसपत्नाः स्वयमेववाधूर्षत अहिंस्यंत धूर्वतेर्हिंसाकर्मणइदंरूपम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः