मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १३, ऋक् ४

संहिता

त्वम॑ग्ने स॒प्रथा॑ असि॒ जुष्टो॒ होता॒ वरे॑ण्यः ।
त्वया॑ य॒ज्ञं वि त॑न्वते ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । स॒ऽप्रथाः॑ । अ॒सि॒ । जुष्टः॑ । होता॑ । वरे॑ण्यः ।
त्वया॑ । य॒ज्ञम् । वि । त॒न्व॒ते॒ ॥

सायणभाष्यम्

हेअग्ने जुष्टः सर्वदाप्रीतः वरेण्यः सर्वैर्वरणीयः होता त्वं सप्रथाः सर्वतः पृथुरसि भवसि तथाहयास्कः-सप्रथाःसर्वतः पृथुरिति । किंचसर्वेयजमानाः त्वयासाधनेन यज्ञं वितन्वते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः