मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १४, ऋक् २

संहिता

तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यम् ।
यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥

पदपाठः

तम् । अ॒ध्व॒रेषु॑ । ई॒ळ॒ते॒ । दे॒वम् । मर्ताः॑ । अम॑र्त्यम् ।
यजि॑ष्ठम् । मानु॑षे । जने॑ ॥

सायणभाष्यम्

मर्ताः मनुष्याः देवंद्योतमानममर्त्यं अमरणधर्माणं मानुषे मनुष्याणांसंबन्धिनि जने लोके यजिष्ठं यष्टृतमं तमग्निं अध्वरेषु सप्ततंतुषु ईळते स्तुवन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः