मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १४, ऋक् ३

संहिता

तं हि शश्व॑न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ ।
अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ॥

पदपाठः

तम् । हि । शश्व॑न्तः । ईळ॑ते । स्रु॒चा । दे॒वम् । घृ॒त॒ऽश्चुता॑ ।
अ॒ग्निम् । ह॒व्याय॑ । वोळ्ह॑वे ॥

सायणभाष्यम्

शश्वन्तोबहवस्तोतारः तंदेवं अग्निंईळते स्तुवन्ति कीदृशास्ते घृतश्चुता घृतक्षरंत्यास्रुचास हिताः किमर्थंस्तुवन्ति हव्याय हव्यवहनार्थं चरुपुरोडाशादिलक्षणं हविर्वोढवे वोढुम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः