मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १४, ऋक् ४

संहिता

अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नन्दस्यू॒ञ्ज्योति॑षा॒ तमः॑ ।
अवि॑न्द॒द्गा अ॒पः स्व॑ः ॥

पदपाठः

अ॒ग्निः । जा॒तः । अ॒रो॒च॒त॒ । घ्नन् । दस्यू॑न् । ज्योति॑षा । तमः॑ ।
अवि॑न्दत् । गाः । अ॒पः । स्वः॑ ॥

सायणभाष्यम्

जातः अरण्योर्मथ्यमानेनप्रादुर्भूतोग्निः दस्यून्यज्ञविघ्नकारिणः शत्रून् घ्नन् हिंसन् ज्योतिषा स्वेनतेजसा तमोघ्नन् अरोचत अदीप्यत किंच गाः अपः उदकानि स्वः सूर्यंच अविन्दत् अवेदयत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः