मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १६, ऋक् १

संहिता

बृ॒हद्वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ ।
यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः ॥

पदपाठः

बृ॒हत् । वयः॑ । हि । भा॒नवे॑ । अर्च॑ । दे॒वाय॑ । अ॒ग्नये॑ ।
यम् । मि॒त्रम् । न । प्रश॑स्तिऽभिः । मर्ता॑सः । द॒धि॒रे । पु॒रः ॥

सायणभाष्यम्

यज्ञे भानवे दीप्तिमते अग्नये बृहत् महते वयोहवीरूपमन्नंदीयतेहि अतस्त्वमपिदेवायद्योतमानायाग्नये अर्च प्रयच्छ मर्तासोमनुष्याःयमग्निंमित्रंन सखायमिव प्रशस्तिभिः प्रकृष्टाभिःस्तुतिभिः पुरोदधिरे पुरस्कुर्वन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः