मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १६, ऋक् २

संहिता

स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः ।
वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति ॥

पदपाठः

सः । हि । द्युऽभिः॑ । जना॑नाम् । होता॑ । दक्ष॑स्य । बा॒ह्वोः ।
वि । ह॒व्यम् । अ॒ग्निः । आ॒नु॒षक् । भगः॑ । न । वार॑म् । ऋ॒ण्व॒ति॒ ॥

सायणभाष्यम्

योग्निर्हव्यं हविः आनुषक् देवेष्वनुषक्तंकरोति बाह्वोर्भुजयोर्दक्षस्यबलस्यद्युभिः द्युतिभिर्युक्तःसोग्निः जनानांयजमानानांहोता देवानामाह्वाताभवति भगोन सूर्यइव वारं वरणीयंधनं न्यृण्वति विशेषेणप्रयच्छतिमनुष्येषु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः