मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १७, ऋक् १

संहिता

आ य॒ज्ञैर्दे॑व॒ मर्त्य॑ इ॒त्था तव्यां॑समू॒तये॑ ।
अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी॑ळी॒ताव॑से ॥

पदपाठः

आ । य॒ज्ञैः । दे॒व॒ । मर्त्यः॑ । इ॒त्था । तव्यां॑सम् । ऊ॒तये॑ ।
अ॒ग्निम् । कृ॒ते । सु॒ऽअ॒ध्व॒रे । पू॒रुः । ई॒ळी॒त॒ । अव॑से ॥

सायणभाष्यम्

हेदेव मर्त्यः मनुष्यः ऋत्विक् इत्था इत्थं तव्यांसं स्वतेजोभिःप्रवृद्धमग्निं ऊतयेतर्पणाय यज्ञैः स्तोत्रैराह्वयति किंच पूरुर्मनुष्यः स्तोता कृतेस्वध्वरेशोभनेक्रतौ तमग्निंअवसे रक्षणाय ईळीत स्तौति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः