मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १८, ऋक् २

संहिता

द्वि॒ताय॑ मृ॒क्तवा॑हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना॑ ।
इन्दुं॒ स ध॑त्त आनु॒षक्स्तो॒ता चि॑त्ते अमर्त्य ॥

पदपाठः

द्वि॒ताय॑ । मृ॒क्तऽवा॑हसे । स्वस्य॑ । दक्ष॑स्य । मं॒हना॑ ।
इन्दु॑म् । सः । ध॒त्ते॒ । आ॒नु॒षक् । स्तो॒ता । चि॒त् । ते॒ । अ॒म॒र्त्य॒ ॥

सायणभाष्यम्

हेअग्ने द्विताय द्वितानाम्नेत्रिपुत्राय मृक्तवाहसे मृक्तंशुद्धंहविर्देवेभ्योवहतिप्रापयतीतिमृक्तवाहः तस्मै स्वस्य आत्मीयस्यदक्षस्यबलस्यधनस्यवा मंहनामंहनायै दानायभव हेअमर्त्य नित्याग्ने यतः कारणात् तेतुभ्यंसमृक्तमृक्तवाहाः आनुषक् सर्वदाआनुषक्तमिन्दुंसोमंधत्ते धारयति स्तोताचित् स्तोताचभवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०