मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १८, ऋक् ३

संहिता

तं वो॑ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना॑म् ।
अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ॥

पदपाठः

तम् । वः॒ । दी॒र्घायु॑ऽशोचिषम् । गि॒रा । हु॒वे॒ । म॒घोना॑म् ।
अरि॑ष्टः । येषा॑म् । रथः॑ । वि । अ॒श्व॒ऽदा॒व॒न् । ईय॑ते ॥

सायणभाष्यम्

हेअग्ने दीर्घायुशोचिषं दीर्घगमनदीप्तिं तं वः पूजायांबहुवचनं त्वांमघोनां धनिनां कृते गिरा स्तोत्रेण हुवे आह्वयामि हेअश्वदावन् अश्वानांदातः येषांधनिनांरथः युद्धेषु अरिष्टः शत्रुभिरहिंसितोविनीयते विगच्छतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०