मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १८, ऋक् ४

संहिता

चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये ।
स्ती॒र्णं ब॒र्हिः स्व॑र्णरे॒ श्रवां॑सि दधिरे॒ परि॑ ॥

पदपाठः

चि॒त्रा । वा॒ । येषु॑ । दीधि॑तिः । आ॒सन् । उ॒क्था । पान्ति॑ । ये ।
स्ती॒र्णम् । ब॒र्हिः । स्वः॑ऽनरे । श्रवां॑सि । द॒धि॒रे॒ । परि॑ ॥

सायणभाष्यम्

येषुऋत्विक्षु चित्रानानाविधादीधितिः यज्ञविषयाक्रियाभवति ये आसन् आस्ये उक्थाउक्थानि स्तोत्राणि पान्ति रक्षन्ति तैरृत्विग्भिःस्तीर्णं स्तीर्णस्यबर्हिः बर्हिषः पर्युपरिश्रवांसि अन्नानि हवींषि स्वर्नरेः स्वःस्वर्गंनरंयजमानंनयतीतिस्वर्णरोयज्ञः तस्मिन् निदधिरे निधीयन्ते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०