मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १८, ऋक् ५

संहिता

ये मे॑ पञ्चा॒शतं॑ द॒दुरश्वा॑नां स॒धस्तु॑ति ।
द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत्कृ॑धि म॒घोनां॑ नृ॒वद॑मृत नृ॒णाम् ॥

पदपाठः

ये । मे॒ । प॒ञ्चा॒शत॑म् । द॒दुः । अश्वा॑नाम् । स॒धऽस्तु॑ति ।
द्यु॒ऽमत् । अ॒ग्ने॒ । महि॑ । श्रवः॑ । बृ॒हत् । कृ॒धि॒ । म॒घोना॑म् । नृ॒ऽवत् । अ॒मृ॒त॒ । नृ॒णाम् ॥

सायणभाष्यम्

येमघवानोदातारोमेमह्यं सधस्तुतिस्तुत्यासहितं त्वत्स्तोत्रसमनंतरं अश्वानांपंचाशतंददुः हेअमृत अग्ने तेषांमघोनां नृणां द्युमत् दीप्तिमत् महि बृहत् परिवृढं नृवत् परिचारकमनुष्ययुक्तं श्रवोन्नं कृधि कुरु देहीत्यर्थः ॥ ५ ॥

अभ्यवस्थाइतिपंचर्चंपंचमंसूक्तं अत्रेयमनुक्रमणिका-अभ्यवस्थावव्रिर्गायत्र्यावनुष्टुभौविराड्रूपेति । आत्रेयोवव्रिरृषिः प्रथमाद्वितीयेगायत्र्यौ तृतीयाचतुर्थ्यावनुष्टुभौ पंचमीविराड्रूपा एकादशिनस्त्रयोष्टकाश्चविराड्रूपेत्युक्तलक्षणोपेतत्वात् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०