मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १९, ऋक् २

संहिता

जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति ।
आ दृ॒ळ्हां पुरं॑ विविशुः ॥

पदपाठः

जु॒हु॒रे । वि । चि॒तय॑न्तः । अनि॑ऽमिषम् । नृ॒म्णम् । पा॒न्ति॒ ।
आ । दृ॒ळ्हाम् । पुर॑म् । वि॒वि॒शुः॒ ॥

सायणभाष्यम्

येविचितयन्तः तव प्रभावंजानंतोजनाः अनिमिषं सर्वदाविजुहुरे जुह्विरे विशेषेणयज्ञार्थंत्वामाह्वयन्ति आहूयच नृम्णं तवबलं हविर्भिःस्तोत्रैश्च पांति रक्षंति तेदृह्ळां शत्रुभिःसाधयितुमशक्यांपुरं पुरीं आविविशुः प्रविशन्ति शतंपूर्भिरायसीभिर्निपाहीतिनिगमः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११