मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १९, ऋक् ३

संहिता

आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद्व॑र्धन्त कृ॒ष्टयः॑ ।
नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥

पदपाठः

आ । श्वै॒त्रे॒यस्य॑ । ज॒न्तवः॑ । द्यु॒ऽमत् । व॒र्ध॒न्त॒ । कृ॒ष्टयः॑ ।
नि॒ष्कऽग्री॑वः । बृ॒हत्ऽउ॑क्थः । ए॒ना । मध्वा॑ । न । वा॒ज॒ऽयुः ॥

सायणभाष्यम्

जायन्तइतिजन्तवः कृष्टयोमनुष्याऋत्विजः मध्वान मधुनेव एना एनयास्तुत्या यद्वा नकारश्चार्थे मधुनाचश्वैत्रेयस्यश्वित्रमन्तरिक्षं तत्रभवस्यवैद्युतस्याग्नेर्द्युमत् दीप्तिमत् बलं आवर्धन्त अभिवर्धयन्ति किंविधाः कृष्टयः निष्कग्रीवः निष्केणसुवर्णेनालंकृतग्नीवाः व्यत्ययेनैकवचनं बृहदुक्थः बृहत्स्तोत्राः वाजयुः अन्नकामाः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११