मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १९, ऋक् ४

संहिता

प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ ।
घ॒र्मो न वाज॑जठ॒रोऽद॑ब्ध॒ः शश्व॑तो॒ दभः॑ ॥

पदपाठः

प्रि॒यम् । दु॒ग्धम् । न । काम्य॑म् । अजा॑मि । जा॒म्योः । सचा॑ ।
घ॒र्मः । न । वाज॑ऽजठरः । अद॑ब्धः । शश्व॑तः । दभः॑ ॥

सायणभाष्यम्

जाम्योर्द्यावापृथिव्योः सचासहायभूतोग्निः दुग्धनं पयइव काम्यंकमनीयं अजामि दोषरहितंप्रियंअस्मदीयंस्तोत्रंश्रृणोतु किंविधोग्निः घर्मोन प्रवर्ग्यइव वाजजठरः वाजोन्नंजठरेयस्यसः घर्मोयथाहव्येनाज्येनपयसा आसिक्तोवाजजठरः तद्वद्धविर्जठरइत्यर्थः अदब्धः शत्रुभिः स्वयमहिंसितः शश्वतः शाश्वतोनित्यः दभः शत्रूणांहिंसकः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११