मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २०, ऋक् १

संहिता

यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिम् ।
तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥

पदपाठः

यम् । अ॒ग्ने॒ । वा॒ज॒ऽसा॒त॒म॒ । त्वम् । चि॒त् । मन्य॑से । र॒यिम् ।
तम् । नः॒ । गीः॒ऽभिः । श्र॒वाय्य॑म् । दे॒व॒ऽत्रा । प॒न॒य॒ । युज॑म् ॥

सायणभाष्यम्

हेअग्ने हेवाजसातम अत्यन्तमन्नद त्वं यं रयिं धनं अस्माभिर्दीयमानं हवीरूपंधनं मन्यसेबुध्यसे चिदितिपादपूरणः श्रवाय्यंश्रवणीयं प्रशस्यं गीर्भिःस्तुतिभिः युजं युक्तं नोस्मदीयंहविर्लक्षणंधनं तं देवत्रा देवेषु पनय प्रापयेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२