मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २०, ऋक् २

संहिता

ये अ॑ग्ने॒ नेरय॑न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः ।
अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ॥

पदपाठः

ये । अ॒ग्ने॒ । न । ई॒रय॑न्ति । ते॒ । वृ॒द्धाः । उ॒ग्रस्य॑ । शव॑सः ।
अप॑ । द्वेषः॑ । अप॑ । ह्वरः॑ । अ॒न्यऽव्र॑तस्य । स॒श्चि॒रे॒ ॥

सायणभाष्यम्

हेअग्ने येजनाःवृद्धाः पश्वादिलक्षणैर्धनैः समृद्धाः सन्तः तेतुभ्यंनेरयन्ति हवींषिनप्रयच्छन्ति तेउग्रस्य अधिकेनशवसोबलेन अन्नेनवा अप अपनीताः बलान्नहीनाभवन्तीत्यर्थः किंच अन्यव्रतस्य अन्यद्वैदिकाद्विभक्तंव्रतंकर्मस्यतस्यासुरस्यद्वेषः तत्संबंधिनंविरोधं ह्वरोहिंसाच अपसश्चिरे आत्मानं प्रापयन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२