मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २०, ऋक् ३

संहिता

होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् ।
य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥

पदपाठः

होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । अग्ने॑ । दक्ष॑स्य । साध॑नम् ।
य॒ज्ञेषु॑ । पू॒र्व्यम् । गि॒रा । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हेअग्ने प्रयस्वन्तोन्नवन्तः एतन्नामकावयं दक्षस्यबलस्यसाधनं साधयितारं त्वां होतारं देवानामाह्वातारंवृणीमहे किंच यज्ञेषु पूर्व्यंमुख्यंत्वां गिरास्तुतिरूपयावाचाहवामहे स्तुमः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२