मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २१, ऋक् १

संहिता

म॒नु॒ष्वत्त्वा॒ नि धी॑महि मनु॒ष्वत्समि॑धीमहि ।
अग्ने॑ मनु॒ष्वद॑ङ्गिरो दे॒वान्दे॑वय॒ते य॑ज ॥

पदपाठः

म॒नु॒ष्वत् । त्वा॒ । नि । धी॒म॒हि॒ । म॒नु॒ष्वत् । सम् । इ॒धी॒म॒हि॒ ।
अग्ने॑ । म॒नु॒ष्वत् । अ॒ङ्गि॒रः॒ । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ॥

सायणभाष्यम्

हेअग्ने त्वा त्वां मनुष्वत् मनुरिवनिधीमहि स्थपयामः मनुःशब्दोमनुपर्यायः नभोंगिरोमनुषांवत्युपसंख्यानमितिभसंज्ञायांरुत्वाभावः मनुष्वत् मनुरिव त्वासमिधीमहि समिद्धिः संदीपयामः हेअंगिरः अंगारात्मकाग्ने देवयते देवकामाय यजमानाय मनुष्वत् मनवे मनोरपत्यायदेवान् यज ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३