मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २१, ऋक् २

संहिता

त्वं हि मानु॑षे॒ जनेऽग्ने॒ सुप्री॑त इ॒ध्यसे॑ ।
स्रुच॑स्त्वा यन्त्यानु॒षक्सुजा॑त॒ सर्पि॑रासुते ॥

पदपाठः

त्वम् । हि । मानु॑षे । जने॑ । अग्ने॑ । सुऽप्री॑तः । इ॒ध्यसे॑ ।
स्रुचः॑ । त्वा॒ । य॒न्ति॒ । आ॒नु॒षक् । सुऽजा॑त । सर्पिः॑ऽआसुते ॥

सायणभाष्यम्

हेअग्ने त्वं मानुषेजने मनुष्यलोके सुप्रीतः स्तोत्रैः सुष्ठुप्रीतः सन् इध्यसे दीप्यसे स्रुचोहविर्भिः संपूर्णाआनुषक् अनुषक्तंयथाभवतितिथा त्वा त्वाम् यन्ति प्राप्नुवन्ति हेसुजात हसर्पिरासुते घृतयुक्तान्नेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३