मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २१, ऋक् ३

संहिता

त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत ।
स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते ॥

पदपाठः

त्वाम् । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । दू॒तम् । अ॒क्र॒त॒ ।
स॒प॒र्यन्तः॑ । त्वा॒ । क॒वे॒ । य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥

सायणभाष्यम्

सजोषसः सहप्रीयमाणाः विश्वेसर्वेदेवासोदेवाः त्वां दूतं अक्रत अकुर्वन् अतःकारणात् हेकवे क्रान्तदर्शिन् देवंद्योतमानं त्वा त्वां सपर्यन्तःपरिचरन्तोयजमानाः यज्ञेषुईळते देवानाह्वातुंयाचन्ते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३