दे॒वं वो॑ देवय॒ज्यया॒ग्निमी॑ळीत॒ मर्त्य॑ः ।
समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ॥
दे॒वम् । वः॒ । दे॒व॒ऽय॒ज्यया॑ । अ॒ग्निम् । ई॒ळी॒त॒ । मर्त्यः॑ ।
सम्ऽइ॑द्धः । शु॒क्र॒ । दी॒दि॒हि॒ । ऋ॒तस्य॑ । योनि॑म् । आ । अ॒स॒दः॒ । स॒सस्य॑ । योनि॑म् । आ । अ॒स॒दः॒ ॥
मर्त्योमनुष्यः देवंद्योतमानमग्निं अग्रण्यं वः त्वांदेवयज्यया देवयज्यायै देवयागार्थं ईळीत स्तोतुमर्हति हेशुक्र शोचिष्मन् समिद्धः हविर्भिः प्रबृद्धःसन् दीदिहि दीप्यस्व ऋतस्य सत्यभूतस्य ससस्यऋषेः ममयोनिःकारणं स्वर्गसाधनं यज्ञस्थानं आसदः देवतारूपेण आसीद आदरातिशयद्योतनार्थंपुनर्वचनम् ॥ ४ ॥
प्रविश्वसामन्नितिचतुरृचमष्टमंसूक्तं आत्रेयोविश्वसामाऋषिः चतुर्थीपंक्तिः शिष्टाअनुष्टुभः अग्निर्देवता तथाचानुक्रान्तं-प्रविश्व- सामन्विश्वसामेति । उक्तोविनियोगः प्रातरनुवाकाश्विनशस्त्रयोः ।