मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २२, ऋक् १

संहिता

प्र वि॑श्वसामन्नत्रि॒वदर्चा॑ पाव॒कशो॑चिषे ।
यो अ॑ध्व॒रेष्वीड्यो॒ होता॑ म॒न्द्रत॑मो वि॒शि ॥

पदपाठः

प्र । वि॒श्व॒ऽसा॒म॒न् । अ॒त्रि॒ऽवत् । अर्च॑ । पा॒व॒कऽशो॑चिषे ।
यः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥

सायणभाष्यम्

हेविश्वसामन् ऋषेःसंबोधनमेतत् त्वं अत्रिवत् अत्रिरिवपावकशोचिषे शोधकदीप्तये तस्मै अग्नये प्रार्च प्रगाय योग्निःअध्वरेषुईड्यःसर्वैर्य- ज्वभिःस्तुत्यः होता देवानामाह्वाता विशि जने मन्द्रतमः स्तुत्यतमः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४