मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २२, ऋक् ३

संहिता

चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता॑स ऊ॒तये॑ ।
वरे॑ण्यस्य॒ तेऽव॑स इया॒नासो॑ अमन्महि ॥

पदपाठः

चि॒कि॒त्वित्ऽम॑नसम् । त्वा॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।
वरे॑ण्यस्य । ते॒ । अव॑सः । इ॒या॒नासः॑ । अ॒म॒न्म॒हि॒ ॥

सायणभाष्यम्

हेअग्ने चिकित्वित् जानन्मनोयस्यासौचिकित्विन्मनाः तं देवं त्वा त्वां इयानासः उपगच्छन्तोमर्तासोमनुष्यावयं ऊतये रक्षणार्थं वरेण्यस्य संभजनीयस्य ते तव अवसः अवसे तर्पणाय अमन्महि स्तुमः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४