मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २३, ऋक् २

संहिता

तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र ।
त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥

पदपाठः

तम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽसह॑म् । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ ।
त्वम् । हि । स॒त्यः । अद्भु॑तः । दा॒ता । वाज॑स्य । गोऽम॑तः ॥

सायणभाष्यम्

हेअग्ने हेसहस्वः बलवन् पृतनासहं पृतनाःसेनाः अभिभवितारं रयिं पुत्रं तं त्वमाभर आहर त्वंहिसत्यःसत्यभूतः अद्भुतोमहान् गोमतः गोभिर्युक्तस्यवाजस्यान्नस्य दाता ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५