मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २३, ऋक् ३

संहिता

विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः ।
होता॑रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पु॒रु ॥

पदपाठः

विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । जना॑सः । वृ॒क्तऽब॑र्हिषः ।
होता॑रम् । सद्म॑ऽसु । प्रि॒यम् । व्यन्ति॑ । वार्या॑ । पु॒रु ॥

सायणभाष्यम्

हेअग्ने सजोषसः सहप्रीयमाणाः वृक्तबर्हिषोलूनबर्हिषोविश्वेसर्वेजनासोजनाः ऋत्विजः सद्मसु यज्ञग्ऋहेषु होतारं देवानामाह्वातारं प्रियं सर्वेषांप्रीतिकरं त्वा त्वां पुरु पुरूणि बहूनि वार्या वरणीयानिधनानि व्यंति याचन्ते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५