मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २३, ऋक् ४

संहिता

स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे ।
अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्न॑ः शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥

पदपाठः

सः । हि । स्म॒ । वि॒श्वऽच॑र्षणिः । अ॒भिऽमा॑ति । सहः॑ । द॒धे ।
अग्ने॑ । ए॒षु । क्षये॑षु । आ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥

सायणभाष्यम्

हेअग्ने सः लोकेषुप्रसिद्धोविश्वचर्षणिरुषिः अभिमाति शत्रूणांहिंसकंसहोबलंदधे धारयतु हेशुक्र शोचिष्मन् त्वं नोस्मदीयेषुक्षयेषुगृहेषुरेवत् धनयुक्तंयथाभवतितथाआदीदिहि आदीप्यस्व हेपावक पापानांशोधक अग्ने त्वं द्युमत् दीप्तियुक्तं यशोयुक्तंच दीदिहि दीप्यस्व ॥ ४ ॥

अग्नेत्वंनइतिचतुरृचंदशमंसूक्तं अत्रानुक्रमणिका-अग्नेत्वंगौपायनालौपायनावाबन्धुःसुबन्धुश्रुतबन्धुर्विप्रबन्धुश्चैकर्चाद्वैपदमिति । विंशतिकाद्विपदाविराजइत्युक्तत्वाच्चतस्रोद्विपदाविराजः बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चक्रमेणचतसृणामृषयः तेचगौपायनालौपायनावा अग्निर्देवता महापितृयज्ञेआहवनीयंप्रतिगच्छन्तऋत्विजः इदंसूक्तंजपेयुः तथाचसूत्रितं-अथैनमभिसमायन्ति माप्रगामाग्नेत्वंनइतिजपन्तइति । दशरात्रेषष्ठेहनितृतीयसवनेमैत्रावरुणस्याअग्नेत्वमितिद्वे तंत्वाशोचिष्ठेत्येका एवंमिलितोद्वैपदस्तृचः स्तोत्रियः तथैवसूत्रितं-अग्नेत्वंनोअन्तमोग्नेभवसुषमिधेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५