मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २४, ऋक् ३

संहिता

स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः स॑मस्मात् ॥

पदपाठः

सः । नः॒ । बो॒धि॒ । श्रु॒धि । हव॑म् । उ॒रु॒ष्य । नः॒ । अ॒घ॒ऽय॒तः । स॒म॒स्मा॒त् ॥

सायणभाष्यम्

हेअग्ने सत्वंनोस्मान् बोधि बुध्यस्व हवमस्मदीयमाह्वानंश्रुधि श्रृणु अघायतः अघमिच्छतः समस्मात् सर्वस्मात् जनात् नोस्मान् उरुष्य रक्ष हेशोचिष्ठ अतिशोचिष्मन् दीदिवः स्वतेजोभिर्दीप्ताग्ने तं त्वा त्वां सुम्नाय सुखाय सुम्नमितिसुखनाम तदर्थंसखिभ्यःसमानख्यातिभ्यः पुत्रेभ्यः तदर्थंच नूनं ईमहे याचामहे ॥ ३ ॥ ४ ॥

अच्छावोअग्निमितिनवर्चमेकादशंसूक्तं अत्रानुक्रमणिका-अच्छावोनववसूयवआनुष्टुभमिति । आत्रेयावसूयुनामानऋषयः अनुष्टुप् मंडलादिपरिभाषयाग्निर्देवता प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः प्रातः सवनेअच्छावाकवदस्वेत्युक्ते अच्छावोअग्निमवसइतितृ- चमनुब्रूयात् तथाचसूत्रितं-अच्छावोअग्निमवसइतितृचमन्वाहेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६