मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २५, ऋक् २

संहिता

स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे ।
होता॑रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुम् ॥

पदपाठः

सः । हि । स॒त्यः । यम् । पूर्वे॑ । चि॒त् । दे॒वासः॑ । चि॒त् । यम् । ई॒धि॒रे ।
होता॑रम् । म॒न्द्रऽजि॑ह्वम् । इत् । सु॒दी॒तिऽभिः॑ । वि॒भाऽव॑सुम् ॥

सायणभाष्यम्

पूर्वेत्पूर्वेमहर्षयः होतारं देवानामाह्वातारं मन्द्रजिह्वं हविषांप्रदानेनदेवानांमादयित्री जिह्वायस्यसः तं यद्वा मोदनजिह्वं तथाहयास्कः-मन्द्रजिह्वंमंदनजिह्वंमोदनजिह्वमितिवेति । सुदीतिभिः शोभनदीप्तिभिर्युक्तं विभावसुं प्रभाधनं यमग्निंईधिरे समैन्धत देवासश्चित् देवाअपियमग्निमीधिरे समैन्धत सह्यग्निः सत्योभवति सत्यप्रतिश्रवोभवति इदितिपूरणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७