मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २५, ऋक् ३

संहिता

स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या ।
अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥

पदपाठः

सः । नः॒ । धी॒ती । वरि॑ष्ठया । श्रेष्ठ॑या । च॒ । सुऽम॒त्या ।
अग्ने॑ । रा॒यः । दि॒दी॒हि॒ । नः॒ । सु॒वृ॒क्तिऽभिः॑ । व॒रे॒ण्य॒ ॥

सायणभाष्यम्

सुवृक्तिभिः स्तुतिभिः स्तूयमान वरेणय वरणीय हेअग्ने सत्वंवरिष्ठया वरतमेन श्रेष्ठया अतिशयेनप्रशस्येननोधीती धीत्या अस्मदीयेनपरिचरणात्मकेनकर्मणा सुमत्याच सुमतिरितिशस्त्रमुच्यते शस्त्रेणचप्रीतः सन् रायोधनानिनोस्मभ्यं दीदिहि देहि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७