मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २५, ऋक् ७

संहिता

यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो ।
महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥

पदपाठः

यत् । वाहि॑ष्ठम् । तत् । अ॒ग्नये॑ । बृ॒हत् । अ॒र्च॒ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।
महि॑षीऽइव । त्वत् । र॒यिः । त्वत् । वाजाः॑ । उत् । ई॒र॒ते॒ ॥

सायणभाष्यम्

वाहिष्ठं वोढृतमं यत्स्तोत्रं तदग्नये क्रियते अतोहेविभावसो प्रभाधनाग्ने बृहत् बह्वन्नं धनं अर्च अस्मभ्यंप्रयच्छ कथमस्यान्नधनप्रदातृत्वमित्यपेक्षायामाह यतः त्वत् त्वत्तः सकाशात् महिषीमहती रयिर्धनं उदीरते उद्गच्छति वाजाःअन्नानिच त्वत् उदीरते उद्गच्छन्ति इवेतिपूरणः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८