मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २५, ऋक् ८

संहिता

तव॑ द्यु॒मन्तो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत् ।
उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥

पदपाठः

तव॑ । द्यु॒ऽमन्तः॑ । अ॒र्चयः॑ । ग्रावा॑ऽइव । उ॒च्य॒ते॒ । बृ॒हत् ।
उ॒तो इति॑ । ते॒ । त॒न्य॒तुः । य॒था॒ । स्वा॒नः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥

सायणभाष्यम्

हेअग्ने तवअर्चयोरश्मयः द्युमन्तोदीप्तिमन्तोभवन्ति बृहत् महत् त्वं ग्रावेव अभिषवग्रावेव उच्यते स्तूयसे उतअपिच त्मना आत्मना दिवोद्योतमानस्यतेतवस्वानःशब्दः तन्यतुर्यथामेघगर्जितमिवअर्तउद्गच्छति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८