मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २५, ऋक् ९

संहिता

ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम ।
स नो॒ विश्वा॒ अति॒ द्विष॒ः पर्ष॑न्ना॒वेव॑ सु॒क्रतु॑ः ॥

पदपाठः

ए॒व । अ॒ग्निम् । व॒सु॒ऽयवः॑ । स॒ह॒सा॒नम् । व॒व॒न्दि॒म॒ ।
सः । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । पर्ष॑त् । ना॒वाऽइ॑व । सु॒ऽक्रतुः॑ ॥

सायणभाष्यम्

वसूयवोवसुकामावयंसहसानमस्माकंबलमिवाचरंतमग्निं एवमुक्तप्रकारेण ववन्दिम स्तुमः सुक्रतुः शोभनकर्मासोग्निर्नोस्मान् विश्वाः सर्वान् द्विषःशत्रून् अतिपर्षत् अतिपारयतु कथमिव नावासाधनेनसिंधुमिव ॥ ९ ॥

अग्नेपावकेतिनवर्चंद्वादशंसूक्तं वसूयवऋषयः गायत्रीछन्दः अग्निर्देवता तथाचानुक्रान्तम्-अग्नेगायत्रमिति । प्रातरनुवाकेआग्नेयेक्रतौगायत्रेछंदसिआशिनशस्त्रेचेदंसूक्तं सूत्रितंचअग्नेपावकदूतंवइतिसूक्तेइति । आधानेद्वितीयायामिष्टौप्रथमस्यहवि -षोग्नेपावकेत्येषायाज्या सूत्रितंच-सनः पावकदीदिवोग्नेपावकरोचिषेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८