मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २६, ऋक् २

संहिता

तं त्वा॑ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश॑म् ।
दे॒वाँ आ वी॒तये॑ वह ॥

पदपाठः

तम् । त्वा॒ । घृ॒त॒स्नो॒ इति॑ घृतऽस्नो । ई॒म॒हे॒ । चित्र॑भानो॒ इति॒ चित्र॑ऽभानो । स्वः॒ऽदृश॑म् ।
दे॒वान् । आ । वी॒तये॑ । व॒ह॒ ॥

सायणभाष्यम्

हेघृतस्नो घृतस्यप्रेरक यद्वा घृतेनजनित हेचित्रभानो चित्रानानाविधाभानवोरश्मयोयस्यासौचित्रभानुः तस्यसंबोधनं स्वर्दृशं सर्वद्रष्टारं तं त्वा त्वांईमहे याचामहे अतोवीतयेहविषां भक्षणायदेवानावह ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९