मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २६, ऋक् ३

संहिता

वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि ।
अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥

पदपाठः

वी॒तिऽहो॑त्रम् । त्वा॒ । क॒वे॒ । द्यु॒ऽमन्त॑म् । सम् । इ॒धी॒म॒हि॒ ।
अग्ने॑ । बृ॒हन्त॑म् । अ॒ध्व॒रे ॥

सायणभाष्यम्

हेकवे क्रान्तदर्शिन् अग्ने वीतिहोत्रं क्रांतयज्ञ यद्वा प्रिययज्ञं द्युमन्तं दीप्तिमन्तं बृहन्तं महान्तं त्वा त्वां अध्वरेयज्ञे समिधीमहि समिद्भिःसंदीपयाम: ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९