मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २६, ऋक् ५

संहिता

यज॑मानाय सुन्व॒त आग्ने॑ सु॒वीर्यं॑ वह ।
दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥

पदपाठः

यज॑मानाय । सु॒न्व॒ते । आ । अ॒ग्ने॒ । सु॒ऽवीर्य॑ । व॒ह॒ ।
दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥

सायणभाष्यम्

हेअग्ने सुन्वते अभिषवंकुर्वतेयजमानाय सुवीर्यंशोभनं बलं आवह प्रापय किंच देवैः सहबर्हिषियज्ञे आसत्सि आसीदेति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९