मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २६, ऋक् ६

संहिता

स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा॑णि पुष्यसि ।
दे॒वानां॑ दू॒त उ॒क्थ्य॑ः ॥

पदपाठः

स॒म्ऽइ॒ध॒नः । स॒ह॒स्र॒ऽजि॒त् । अग्ने॑ । धर्मा॑णि । पु॒ष्य॒सि॒ ।
दे॒वाना॑म् । दू॒तः । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

हेसहस्रजित् सहस्रजेतरग्ने समिधानः हविर्भिःसमिध्यमानाः उक्थ्यः प्रशस्यस्त्वं देवानांदूतःसन् धर्माणि नः कर्माणि यज्ञादिक्रियाः पुष्यसि पोषयसि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०