मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २६, ऋक् ७

संहिता

न्य१॒॑ग्निं जा॒तवे॑दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् ।
दधा॑ता दे॒वमृ॒त्विज॑म् ॥

पदपाठः

नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । हो॒त्र॒ऽवाहम् । यवि॑ष्ठ्यम् ।
दधा॑त । दे॒वम् । ऋ॒त्विज॑म् ॥

सायणभाष्यम्

हेयजमानाः जातवेदसं जातानिभूतानिवेत्तीतिजातवेदाः तं होत्रवाहं होत्रस्ययज्ञस्य वोढारं यविष्ठ्यंयुवतमं देवं द्योतमानं ऋत्विजं ऋतौयष्टारं अग्निंनिदधात निधत्त ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०