मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २६, ऋक् ९

संहिता

एदं म॒रुतो॑ अ॒श्विना॑ मि॒त्रः सी॑दन्तु॒ वरु॑णः ।
दे॒वास॒ः सर्व॑या वि॒शा ॥

पदपाठः

आ । इ॒दम् । म॒रुतः॑ । अ॒श्विना॑ । मि॒त्रः । सी॒द॒न्तु॒ । वरु॑णः ।
दे॒वासः॑ । सर्व॑या । वि॒शा ॥

सायणभाष्यम्

मरुतोमरुद्गणाः अश्विना अश्विनौ देवानांभिषजौ मित्रःसूर्योवरुणश्च देवासः एते सर्वेदेवाः सर्वयाविशा समस्तेनस्वीयेनपरिजनेन सार्धमिदंबर्हिः सीदन्तु आसीदन्तु ॥ ९ ॥

अनस्वन्तेतिषळृचंत्रयोदशंसूक्तं अत्रानुक्रमणिका-अन्स्वन्ताषट् त्रैवृष्णपौरुकुत्स्यौद्वौ त्र्यरुणत्रसदस्यूराजानौ भारतश्चाश्वमेधोन्त्यास्तिस्रोनुष्टुभोनात्मात्मनेदध्यादितिसर्वास्वत्रिंके चिदंत्यैन्द्राग्नीइति । त्रिवृष्णस्यपुत्रस्त्र्यरुणः पुरुकुत्सस्यपुत्रस्त्रसदस्युः भरतस्यपुत्रोश्वमेधः एतेत्रयोपिराजानः संभूयास्यसूक्तस्यऋषयः यद्वात्रिरेवऋषिः आद्यास्तिस्रस्त्रिष्टुभः चतुर्थ्याद्यास्तिस्रोनोष्टुभः षष्ठीन्द्राग्निदेवत्या शिष्टाःपंचाग्नेय्यः विनियोगोलैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०