मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २७, ऋक् २

संहिता

यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति ।
वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥

पदपाठः

यः । मे॒ । श॒ता । च॒ । विं॒श॒तिम् । च॒ । गोना॑म् । हरी॒ इति॑ । च॒ । यु॒क्ता । सु॒ऽधुरा॑ । ददा॑ति ।
वैश्वा॑नर । सुऽस्तु॑तः । व॒वृ॒धा॒नः । अग्ने॑ । यच्छ॑ । त्रिऽअ॑रुणाय । शर्म॑ ॥

सायणभाष्यम्

यस्त्र्यरुणः शता शतानि सुवर्णानांगोनांगवांविंशतिंचयुक्ता रथेनयुक्तौ सुधुरा सुधुरौ सुष्ठुधुरंवहन्तौ हरी अश्वौच मे मह्यं ददाति अददात् हेवैश्वानर अग्ने सुष्टुतः अस्माभिःसम्यक् स्तुतः ववृधानोहविर्भिर्वर्धमानः त्वं तस्मै त्र्यरुणाय शर्म सुखं यच्छ प्रयच्छ ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१