मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २७, ऋक् ३

संहिता

ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः ।
यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ॥

पदपाठः

ए॒व । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । च॒का॒नः । नवि॑ष्ठाय । न॒व॒मम् । त्र॒सद॑स्युः ।
यः । मे॒ । गिरः॑ । तु॒वि॒ऽजा॒तस्य॑ । पू॒र्वीः । यु॒क्तेन॑ । अ॒भि । त्रिऽअ॑रुणः । गृ॒णाति॑ ॥

सायणभाष्यम्

यस्त्र्यरुणः तुविजातस्य बह्वपत्यस्य मे पूर्वीर्बह्वीः गिरः स्तुतीः श्रुत्वाप्रीतः सन् युक्तेनाभियुक्तेनमनसा अभिगृणाति इदंगृहाणेदंगृहाणेतियथामांब्रवीति एव एवं हेअग्ने नविष्ठाय अत्यन्तंस्तुत्याय ते तुभ्यं नवमं नवतमांसुमतिंस्तुतिंचकानः कामयमानस्त्रसदस्युरपिइदंगृहाणेदंगृहाणेतिमांप्रार्थितवान् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१