मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २७, ऋक् ४

संहिता

यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ ।
दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥

पदपाठः

यः । मे॒ । इति॑ । प्र॒ऽवोच॑ति । अश्व॑ऽमेधाय । सू॒रये॑ ।
दद॑त् । ऋ॒चा । स॒निम् । य॒ते । दद॑त् । मे॒धाम् । ऋ॒त॒ऽय॒ते ॥

सायणभाष्यम्

योभिक्षमाणोर्थीसूरयेप्रेरकाय धनानांदात्रेवा अस्मै अश्वमेधाय राजर्षये मे मह्यं देहीति प्रवोचति प्रब्रवीति योश्वमेधंधनानिभिक्षतइत्यर्थः ऋचाग्नेःस्तोत्रेणसहयते आत्मनःसमीपंगच्छते तस्मै अर्थिने अश्वमेधः सनिं धनं ददत् ददाति हेअग्ने ऋतायते यज्ञमिच्छते तस्मै अश्वमेधायमेधांयज्ञविषयांप्रज्ञां ददत् देहि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१