मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २७, ऋक् ५

संहिता

यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय॑न्त्यु॒क्षणः॑ ।
अश्व॑मेधस्य॒ दाना॒ः सोमा॑ इव॒ त्र्या॑शिरः ॥

पदपाठः

यस्य॑ । मा॒ । प॒रु॒षाः । श॒तम् । उ॒त्ऽह॒र्षय॑न्ति । उ॒क्षणः॑ ।
अश्व॑ऽमेधस्य । दानाः॑ । सोमाः॑ऽइव । त्रिऽआ॑शिरः ॥

सायणभाष्यम्

यस्य येन अश्वमेधस्याश्वमेधेन दानादत्ताः प्ररुषाः कामानांपूरकाः शतमुक्षणः उक्षणोबलीवर्दाः मा मां उद्धर्षयन्ति उत्कर्षेणहर्षयन्ति हेअग्ने ते उक्षाणः त्र्याशिरः दधिसक्तुपयोरूपास्तिस्रआशिरः अधिश्रयणसाधनभूतायेषांतेत्र्याशिरः सोमाइव तवप्रीणनायभवन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१