मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् १

संहिता

त्र्य॑र्य॒मा मनु॑षो दे॒वता॑ता॒ त्री रो॑च॒ना दि॒व्या धा॑रयन्त ।
अर्च॑न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे॑षा॒मृषि॑रिन्द्रासि॒ धीरः॑ ॥

पदपाठः

त्री । अ॒र्य॒मा । मनु॑षः । दे॒वऽता॑ता । त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ ।
अर्च॑न्ति । त्वा॒ । म॒रुतः॑ । पू॒तऽद॑क्षाः । त्वम् । ए॒षा॒म् । ऋषिः॑ । इ॒न्द्र॒ । अ॒सि॒ । धीरः॑ ॥

सायणभाष्यम्

मनुषोमनोःसंबंधिनिदेवताता देवतातौ यज्ञे त्री त्रीणि अर्यमा अर्यमाणि यानितेजांसि सन्ति तथा त्री त्रीणि रोचना रोचनानि वाय्वग्निसूर्यात्मकानि दिव्या दिव्यान्यंतरिक्षेभवानि तानि तेजांसि धारयन्त मरुतोधारयन्ति पूतदक्षाः शुद्धबलामरुतः त्वा त्वां अर्चन्ति स्तुवन्ति हेइन्द्र धीरः धीमांस्त्वं एषांमरुतांऋषिरसि द्रष्टाभवसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३