मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् ३

संहिता

उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येन्द्र॒ः सोम॑स्य॒ सुषु॑तस्य पेयाः ।
तद्धि ह॒व्यं मनु॑षे॒ गा अवि॑न्द॒दह॒न्नहिं॑ पपि॒वाँ इन्द्रो॑ अस्य ॥

पदपाठः

उ॒त । ब्र॒ह्मा॒णः॒ । म॒रु॒तः॒ । मे॒ । अ॒स्य । इन्द्रः॑ । सोम॑स्य । सुऽसु॑तस्य । पे॒याः॒ ।
तत् । हि । ह॒व्यम् । मनु॑षे । गाः । अवि॑न्दत् । अह॑न् । अहि॑म् । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ ॥

सायणभाष्यम्

उतापिच हेब्रह्मणोबृहन्तोहेमरुतोयूयमिन्द्रश्च सुसुतस्य सुष्ठुअभिषुतस्य मे मदीयस्यास्य सोमस्य इमंसोमं द्वितीयार्थेषष्ठी पेयाः पिबत पिबतेराशीर्लिङिमध्यमबहुवचनस्यैकवचनं तद्धि ततखलु हव्यं युष्माभिःपीतंसोमात्मकंहविः मनुषे मनुष्याय यजमानाय गाः धेनूः वृष्टिलक्षणान्युदकानि वा अविन्दत् वेदयति यजमानंगालंभयतीत्यर्थः किंचास्येमंसोमंप पिवान् पीतवानिन्द्रः अहिंवृत्रं अहन् अवधीत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३