मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् ४

संहिता

आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं कः॑ ।
जिग॑र्ति॒मिन्द्रो॑ अप॒जर्गु॑राण॒ः प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ॥

पदपाठः

आत् । रोद॑सी॒ इति॑ । वि॒ऽत॒रम् । वि । स्क॒भा॒य॒त् । स॒म्ऽवि॒व्या॒नः । चि॒त् । भि॒यसे॑ । मृ॒गम् । क॒रिति॑ कः ।
जिग॑र्तिम् । इन्द्रः॑ । अ॒प॒ऽजर्गु॑राणः । प्रति॑ । श्व॒सन्त॑म् । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥

सायणभाष्यम्

इन्द्रः परमैश्वर्ययुक्तः आत् सोमपानानंतरं रोदसी द्यावापृथिव्यौ वितरमतिशयेन अमुचच्छन्दसीतिवेस्तरपिकृते अमुप्रत्ययः विष्कभायत् व्यस्तभ्रात् चलनरहिते अकरोत् संविव्यानश्चित् संवृण्वानः संगच्छमानोवेन्द्रः व्ययतेर्वासंवरणकर्मणोवेतेर्वागतिकर्मणोरूपं चिदित्येवेत्यस्यार्थेवर्तते मृगं मृगवत्पलायमानं वृत्रं भियसे भयाय कःअकार्षीत् करोतेर्लुङि मंत्रेघसह्वरे त्यादिनाच्लेर्लोपः बहुलंछन्दस्यमाङ् योगेपीत्यडभावः इन्द्रः जिगर्तिं गिरंतमाच्छादयन्तं श्वसंतं भयार्थंश्वासं अकुर्वन्तं दानवं दनोःपुत्रं वृत्रं अपजर्गुराणः आच्छादनाद्विमोचयन् प्रति प्रतिगत्य अवहन् अवहतवान् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३