मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् ६

संहिता

नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्त्सा॒कं वज्रे॑ण म॒घवा॑ विवृ॒श्चत् ।
अर्च॒न्तीन्द्रं॑ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ॥

पदपाठः

नव॑ । यत् । अ॒स्य॒ । न॒व॒तिम् । च॒ । भो॒गान् । सा॒कम् । वज्रे॑ण । म॒घऽवा॑ । वि॒ऽवृ॒श्चत् ।
अर्च॑न्ति । इन्द्र॑म् । म॒रुतः॑ । स॒धऽस्थे॑ । त्रैस्तु॑भेन । वच॑सा । बा॒ध॒त॒ । द्याम् ॥

सायणभाष्यम्

यद्यदा मघवा धनवानिन्द्रः अस्येत्यनेनशंबरउच्यते अस्यशंबरस्यसंबन्धीनि नवनवसंख्याकानि नवतिंच नवतिसंख्याकानिच भोगान् पुराणि भोगानित्यन्तोदात्तः पुरवचनः साकं युगपदेव वज्रेण विवृश्चत् व्यवृश्चत् अभिनत् तदामरुतःसधस्थे सहस्थाने युद्धेवा स्थितमिन्द्रं त्रैष्टुभेन त्रिष्टुछन्दस्केनवचसा वाग्रूपेण स्तोत्रेणार्चन्ति अस्तुवन् इन्द्रः एवंस्तुतःसन् द्यां मरुद्भिःप्रयज्यमानेन- मंत्रेणदीप्तंशंबराख्यमसुरं बाधताबाधत पिपीडे ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४