मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् ७

संहिता

सखा॒ सख्ये॑ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा॑ महि॒षा त्री श॒तानि॑ ।
त्री सा॒कमिन्द्रो॒ मनु॑ष॒ः सरां॑सि सु॒तं पि॑बद्वृत्र॒हत्या॑य॒ सोम॑म् ॥

पदपाठः

सखा॑ । सख्ये॑ । अ॒प॒च॒त् । तूय॑म् । अ॒ग्निः । अ॒स्य । क्रत्वा॑ । म॒हि॒षा । त्री । श॒तानि॑ ।
त्री । सा॒कम् । इन्द्रः॑ । मनु॑षः । सरां॑सि । सु॒तम् । पि॒ब॒त् । वृ॒त्र॒ऽहत्या॑य । सोम॑म् ॥

सायणभाष्यम्

सखा इन्द्रस्यमित्रभूतोग्निः महिषा महिषाणांपशूनां त्री त्रीणि शतानि शतसंख्याकानि सख्ये सख्युर्मित्रभूतस्यास्येन्द्रस्य क्रत्वा कर्मणा निमित्तभूतेन तूयं क्षिप्रं अपचत् पपाच किंच इन्द्रःपरमैश्वर्ययुक्तः मनुषोमनोःसंबंधीनि त्री त्रीणिसरांसि पात्राणि अत्रसरस् शब्देन पूतभृदाधवनीयद्रोणकलशसंज्ञानिपात्राण्युच्यन्ते तेषुस्थितंसुतम भिषुतंसोमंसाकं युगपदेव वृत्रहत्याय वृत्रहननाय पिबदपिबत् पपौ ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४