मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् ८

संहिता

त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां॑सि म॒घवा॑ सो॒म्यापा॑ः ।
का॒रं न विश्वे॑ अह्वन्त दे॒वा भर॒मिन्द्रा॑य॒ यदहिं॑ ज॒घान॑ ॥

पदपाठः

त्री । यत् । श॒ता । म॒हि॒षाणा॑म् । अघः॑ । माः । त्री । सरां॑सि । म॒घऽवा॑ । सो॒म्या । अपाः॑ ।
का॒रम् । न । विश्वे॑ । अ॒ह्व॒न्त॒ । दे॒वाः । भर॑म् । इन्द्रा॑य । यत् । अहि॑म् । ज॒घान॑ ॥

सायणभाष्यम्

हेइन्द्र त्वं यद्यदा त्री त्रयाणांशता शतसंख्याकानांमहिषाणांपशूनांमाः मांसानि अघःभक्षितवानसि घसेरत्तेर्वारूपं यदाच मघवाधनवांस्त्वं सोम्या सोममयानि त्री त्रीणि सरांसि पात्राणि अपाः पीतवानसि यद्यदाइन्द्रोहिंवृत्रं जघान हतवान् तदाविश्वेसर्वेदेवाः भरं सोमपानादिनापूर्णं इन्द्रायेन्द्रं युद्धार्थं अह्वंत आह्वयंत तत्रदृष्टान्तः-कारंन स्वामिनःकर्मकरमिव तद्वत् ॥ ८ ॥ उशनसःस्तोमेउशनायत् सहस्यैरितिमरुत्वतीयेसूक्तमुखीया सूत्रितंच-उशनसःस्तोमे नगरगीर्णमिवत्मानंमन्यमानोयजे तोशनाय -त्सहस्यैरयातमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४